मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १५

संहिता

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।
स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥

पदपाठः

प्र । पू॒षण॑म् । वृ॒णी॒म॒हे॒ । युज्या॑य । पु॒रु॒ऽवसु॑म् ।
सः । श॒क्र॒ । शि॒क्ष॒ । पु॒रु॒ऽहू॒त॒ । नः॒ । धि॒या । तुजे॑ । रा॒ये । वि॒ऽमो॒च॒न॒ ॥

सायणभाष्यम्

इदमाद्यासु चतसृषु पूष्णइन्द्रस्य च लिङ्गसद्भावात् एताउभयथा व्याख्यायन्ते पुरुवसुं बहुधनं पूषणं पोषकमिन्द्रं यद्वैतत्संज्ञं देवं प्रवृणीमहे प्रकर्षेण संभजामहे । किमर्थं युज्याय युङ्क्तइति युङ् सखा तस्य भावाय सखित्वायेत्यर्थः हे शक्र शक्त पुरुहूत बहुभिराहूत हे विमोचन पापाद्विमोचयितरिन्द्र पूषन्वा सत्वं नोस्मान् धिया आत्मीयया बुध्या शिक्ष शक्तान्कर्तुमिच्छ । किमर्थं राये धनाय धनप्राप्त्यर्थं तुजे शत्रून् तोजयितुं हिंसितुम् तुज हिंसायाम् अस्मात्कृत्यार्थे केन्प्रत्ययः । यद्वा रायइति क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानात्वा- च्चतुर्थी जातावेकवचनम् रायोधनानि धिया स्तुत्या प्रीतःसन् नोस्मभ्यं शिक्ष देहि शिक्षतिर्दानकर्मा ऊडिदमिति रायोविभक्तिरुदात्ता ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२