मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १६

संहिता

सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
त्वे तन्न॑ः सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥

पदपाठः

सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः॑ऽइव । क्षु॒रम् । रास्व॑ । रा॒यः । वि॒ऽमो॒च॒न॒ ।
त्वे इति॑ । तत् । नः॒ । सु॒ऽवेद॑म् । उ॒स्रिय॑म् । वसु॑ । यम् । त्वम् । हि॒नोषि॑ । मर्त्य॑म् ॥

सायणभाष्यम्

हे इन्द्र पूषन्वा नोस्मान् संशिशीहि सम्यक् निश्य तीक्ष्णबुद्धीन्कुरु । भुरिजोरिव बाहुनामैतत् नापितस्य बाह्वोरवस्थितं क्षुरमिव अपिच हे विमोचन पापाद्विमोचयितः रायो धनानि रास्व अस्मभ्यं देहि रादाने । तत्कस्य हेतोः त्वे त्वयि खलु उस्रियं उस्रागावः तत्संबद्धं तद्वसु निवासकं धनं नोस्माकं सुवेदं सुलभं नान्येषु देवेषु यं धनसमूहं मर्त्यं मनुष्यं स्तोतारं प्रति त्वं हिनोषि प्रेरयसि तद्वसु त्वयीत्यन्वयः । यतएवं तस्माद्रास्वेति योज्यम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३