मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १८

संहिता

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।
अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥

पदपाठः

परा॑ । गावः॑ । यव॑सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य॑म् । रेक्णः॑ । अ॒म॒र्त्य॒ ।
अ॒स्माक॑म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि॑ष्ठः । वाज॑ऽसातये ॥

सायणभाष्यम्

हे आघृणे आगतदीप्ते पूषन्निन्द्र वा कञ्चित् कस्मिंश्चित्काले अस्मदीयागावः यवसं तृणं भक्षितुं परागच्छन्ति हे अमर्त्य अमरण देव तदानीं रेख्णस्तद्गोरूपं धनं नित्यं अस्माकं ध्रुवमस्तु चोख्याघ्रादिभिः हिंसितं माभूत् । अपिच हे पूषन् पोषषयितः अस्माकं अविता रक्षिता भूत्वा शिवः सुखकरोभव तथा वाजसातये वाजस्यान्नस्य बलस्य वा संभजनार्थं मंहिष्ठोदातृतमो भव ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३