मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् १९

संहिता

स्थू॒रं राधः॑ श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।
राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥

पदपाठः

स्थू॒रम् । राधः॑ । श॒तऽअ॑श्वम् । कु॒रु॒ङ्गस्य॑ । दिवि॑ष्टिषु ।
राज्ञः॑ । त्वे॒षस्य॑ । सु॒ऽभग॑स्य । रा॒तिषु॑ । तु॒र्वशे॑षु । अ॒म॒न्म॒हि॒ ॥

सायणभाष्यम्

इदमादिकेन तृचेन देवातिथिः कुंरुगनाम्नोराज्ञो दानं स्तौति कुरुङ्गस्य कुरून् जेतुं गच्छति कुलं गच्छतीति वा कुरुङ्ग डोन्यत्रापि दृश्यते इति गमेर्डः पृषोदरादिः एतत्संज्ञस्य त्वेषस्य दीप्तस्य सुभगस्य शोभनधनस्य एवंभूतस्य राज्ञः संबन्धिनीषु दिविष्टिषु दिवः स्वर्गस्य एषणेषु प्राप्तिहेतुभूतासु यागक्रियासु रातिषु दक्षिणारूपेषु सत्सु तुर्वशेषु मनुष्यनामैतत् निर्धारणे सप्तमी मनुष्येषु मध्ये वयं स्थूरं स्थूलं प्रभूतं शताश्वं अश्वानां शतेन युक्तं राधोधनं अमन्महि अज्ञासिष्म अलभामहीत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३