मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४, ऋक् २१

संहिता

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥

पदपाठः

वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ ।
गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥

सायणभाष्यम्

मे मया अभिपित्वे पूर्वोक्ते धनेभिप्राप्ते सति वृक्षाश्चित् वृक्षाअपि अरारणुः अशब्दयन् कथमिति तदाह इमे ऋषयः मेहना मंहनीयां प्रशस्यां गां भजन्त असेवन्त अलभन्त मेहना मंहनीयं अश्वं च भजन्त अलभन्तेति गामश्वमिति जात्यभिप्रायमेकवचनम् । यद्वा मेहनइति मे इह नेति पदत्रयात्मकमेकं पदं यदाह यास्कः –यदिन्द्रचित्रंचायनीयंमंहनीयंधनमस्तियन्मइहनास्तीतिवा त्रीणि मध्यमानि पदानि । तदैवं व्याख्येयं इमे ऋषयो गामश्वंचालभन्त इहास्मिन्राजनिप्रशस्तधनस्य तद्दानं ममनासीन्मम नासीदिति वृक्षप्रमुखाः सर्वेपि जनाः प्रोचुरित्यर्थः ॥ २१ ॥

वेदार्थस्य प्रकाशेन तमोहार्दंनिवारयन् । प्रमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके सप्तमोध्यायः समाप्तः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३