मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३

संहिता

यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत ।
वाचं॑ दू॒तो यथो॑हिषे ॥

पदपाठः

यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ ।
वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥

सायणभाष्यम्

हे वाजिनीवसू वाजं हविर्लक्षणमन्नं तद्युक्तयागक्रिया वाजिनी तस्यां वसु धनं ययोरस्ति तौ तथोक्तौ यद्वा अन्नयुक्तं स्तोतृभ्योदेयं वसु धनं ययोरस्ति तादृशौ हे अश्विनौ युवाभ्यां स्तोमाःक् अस्माभिः कृतानि स्तोत्राणि प्रत्यदृक्षत प्रतिदृश्यन्ताम् दृशेश्छान्दसः कर्म- णिलुङ् लिङ्सिचावात्मनेपदेष्विति कित्त्वात्सूजिदृशोरित्यमभावः षत्वकत्वषत्वानि अहं च यथा येनप्रकारेण दूतः प्रेष्योवाचं स्वामि- नोवाक्यं याचते तथा युवयोः प्रीतिपूर्विकां वाचं ओहिषे पुरुषव्यत्ययः याचे ऊहिरर्दने याचने इत्यर्थः व्यत्ययेनात्मनेपदम् । यद्वा दूतो यथास्वामिनोक्तां वाचं विदेशस्थमन्यं प्रापयति एवमहमपि स्तुतिरूपां वाचं ओहिषे वहे युवां प्रापयामि वहेर्व्यत्ययेनमध्यमः छान्दसं सम्प्रसारणम् छन्दस्युभयथेत्यार्धधातुकत्वादिडागमः शबभावोलघूपधगुणश्च एङिपररूपमिति पररूपत्वम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः