मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ४

संहिता

पु॒रु॒प्रि॒या ण॑ ऊ॒तये॑ पुरुम॒न्द्रा पु॑रू॒वसू॑ ।
स्तु॒षे कण्वा॑सो अ॒श्विना॑ ॥

पदपाठः

पु॒रु॒ऽप्रि॒या । नः॒ । ऊ॒तये॑ । पु॒रु॒ऽम॒न्द्रा । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ ।
स्तु॒षे । कण्वा॑सः । अ॒श्विना॑ ॥

सायणभाष्यम्

पुरुप्रिया बहूनां प्रियौ पुरुमन्द्रा बहुमदौ बहूनां मादयितारौ वा यद्वा पुरु बहुलं माद्यन्तौ पुरुवसू बहुधनौ ईदृशौ अश्विना अश्विनौ नोस्माकमूतये रक्षणाय कण्वासः कण्वगोत्रावयं स्तुषे स्तुमहे पुरुषवचयनोर्व्यत्ययः । यद्वा कण्वासइति पूजार्थं बहुवचनम् ऋषिरात्मा- नं संबोध्य ब्रूते हे अन्तरात्मन् कण्वासः कण्वगोत्रस्त्वं स्तुषे अश्विनौ स्तुहि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः