मंहि॑ष्ठा वाज॒सात॑मे॒षय॑न्ता शु॒भस्पती॑ ।
गन्ता॑रा दा॒शुषो॑ गृ॒हम् ॥
मंहि॑ष्ठा । वा॒ज॒ऽसात॑मा । इ॒षय॑न्ता । शु॒भः । पती॒ इति॑ ।
गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् ॥
मंहिष्ठा मंहिष्ठौ मंहनीयौ पूजनीयौ यद्वा दातृतमौ वाजसातमा वाजोन्नं बलं वा तस्यातिशयेन दातारौ यद्वा वाजोन्नं हविर्लक्षणमन्नं तस्य संभक्तृतमौ सनोतेः सनतेर्वा जनसनेतिविट् विड्वनोरनुनासिकस्यात्वम् । इषयन्ता स्तोतृभ्यइषमन्नं कुर्वन्तौ इट्शब्दात्ततकरोती- तिणिच् णेरिष्ठवद्भावेनाटिलोपे प्राप्ते प्रकृत्येकाजितिप्रकृतिभावः । यद्वा एषयन्ता इषयन्तौ श्रेयांसि प्रपयन्तौ इषगतौ अस्माद्धेतुमति- चेति णिच् संज्ञापूर्वकस्यविधेरनित्यत्वाद्गुणाभावः शुभः शोभनस्य धनस्य उदकस्य वा पती स्वामिनौ षष्ठ्याः पतिपुत्रेति विसर्ज- नीयस्य सत्वम् दाशुषः चरुपुरोडाशादीनि दत्तवतोयजमानस्य गृहं गन्तारा गमनशीलौ गमेस्ताच्छीलिकस्तृन् अतोनलोकाव्ययेति कर्मणि षष्ठ्याः प्रतिषेधः । ईदृशावश्विनौ स्तुमइति शेषः ॥ ५ ॥