ता सु॑दे॒वाय॑ दा॒शुषे॑ सुमे॒धामवि॑तारिणीम् ।
घृ॒तैर्गव्यू॑तिमुक्षतम् ॥
ता । सु॒ऽदे॒वाय॑ । दा॒शुषे॑ । सु॒ऽमे॒धाम् । अवि॑ऽतारिणीम् ।
घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ॥
हे अश्विनौ ता तौ तादृशौ युवाम् सुदेवाय शोभनादेवा येनयष्टव्याः सतथोक्तः बहुव्रीहौनञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् तस्मै दाशुषे हविर्दत्तवते यजमानाय तादर्थ्येचतुर्थी ईदृग्यजमानार्थं सुमेधां शोभनयज्ञां अवितारिणीं वितरणं विगमनम् अपायः अनपा- यिनीम् नञ् समासः अव्ययपूर्वपदप्रकृतिस्वरत्वम् ईदृशीं गव्यूतिं गावोयूयन्ते संयुज्यन्तेत्रेति गत्र्यूतिर्गोसञ्चारभूमिः गोर्यूतौछन्दसी- त्यवादेशः तां घृतैः क्षरणशीलैः उदकैः उक्षतम् सिञ्चतम् । उक्षसेचने ॥ ६ ॥