मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ७

संहिता

आ न॒ः स्तोम॒मुप॑ द्र॒वत्तूयं॑ श्ये॒नेभि॑रा॒शुभि॑ः ।
या॒तमश्वे॑भिरश्विना ॥

पदपाठः

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । तूय॑म् । श्ये॒नेभिः॑ । आ॒शुऽभिः॑ ।
या॒तम् । अश्वे॑भिः । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ नोस्माकं स्तोमं स्तोत्रं अश्वेभिरश्वैः द्रवत् तूयमिति उभे क्षिप्रनामनी एकः पूरकः तूयम् क्षिप्रं उपायातं उपागच्छतम् । यद्वा द्रवदिति स्तोमविशेषणं द्रवत् शीघ्रं प्रवर्तमानं स्तोममित्यर्थः कीदृशैरश्वैः श्येनेभिः शंसनीयगतिभिः प्रशस्यगमनैः आशुभिः शी- घ्रगैः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः