मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ११

संहिता

वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर॑ण्यवर्तनी ।
पिब॑तं सो॒म्यं मधु॑ ॥

पदपाठः

व॒वृ॒धा॒ना । शु॒भः॒ । प॒ती॒ इति॑ । दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी ।
पिब॑तम् । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हे शुभस्पती शुभः शोभनस्यालङ्कारस्योदकस्य वा पती स्वामिनौ हेअश्विनौ सुबामन्त्रितइतिषष्ठ्यन्तस्य पराङ्गवद्भावात् षष्ठ्याम- न्त्रितसमुदायस्तोष्टमिकंसर्वानुदात्तत्वम् । दस्रा दर्शनीयौ शत्रूणामुपक्षपयितारौ वा हिरण्यवर्तनी हिरण्मयमार्गौ यद्वा वर्ततेस्मिन्निति वर्तनीरथः हिरण्मयोरथोययोस्तौ यद्वा वर्तनिर्वर्तनमाचरणं हितरमणीयाचरणौ ववृधाना प्रवृद्धौ वृधेः लिटः कानच् ईदृशौ युवां सोम्यं सोममयं मधु माधुर्योपेतं मदकरं वा रसं पिबतम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः