नि षु ब्रह्म॒ जना॑नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् ।
मो ष्व१॒॑न्याँ उपा॑रतम् ॥
नि । सु । ब्रह्म॑ । जना॑नाम् । या । अवि॑ष्टम् । तूय॑म् । आ । ग॒त॒म् ।
मो इति॑ । सु । अ॒न्यान् । उप॑ । अ॒र॒त॒म् ॥
हे अश्विनौ या यौ युवां जनानां प्राणिनां मध्ये ब्रह्म ब्राह्मणजातिं सु सुष्ठु नि नितरां अविष्टं अरक्षिष्टम् यद्वा जनानां यजमनानां ब्रह्म परिवृढं स्तोत्रं हविर्लक्षणमन्नं वा यौ युवाम् न्यविष्टं न्यगच्छतम् अवतिर्गत्यर्थः तौ युवां तूयं क्षिप्रं आगतं अस्मानप्यागच्छतम् अन्यान् अस्मद्भ्यतिरिक्तान्यजमानान् मो मैव सूपारतम् उपगछतं कदाचिदपि मैव प्राप्नुतमित्यर्थः अर्तेर्माङि लुङि सर्तिशास्त्यर्तिभ्यश्चेति च्लेर- ङादेशः ॥ १३ ॥ आपराह्णिकेप्रवर्ग्ये घर्मस्यहविषोस्यपिबतमिति द्वितीया याज्या सूत्रितञ्च-अस्यपिबतमश्विनेतिचाप्रेषितोहोतेति ।