मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १६

संहिता

पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिणः॑ ।
वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

पु॒रु॒ऽत्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒ऽह्वय॑न्ते । म॒नी॒षिणः॑ ।
वा॒घत्ऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे नरा नरौ स्तोतॄणां धनस्य नेतारौ अश्विनौ मनीषिणोमनसईशितारः स्तोतारः वां युवां पुरुत्राचिद्धि बहुषु देशेषु विह्वयन्ते विविध- माह्वयन्ति तथासति हे अश्विनौ वाघद्भिः वाह्रकैरश्वैः आगत अस्मानेवागच्छतम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः