मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १७

संहिता

जना॑सो वृ॒क्तब॑र्हिषो ह॒विष्म॑न्तो अरं॒कृतः॑ ।
यु॒वां ह॑वन्ते अश्विना ॥

पदपाठः

जना॑सः । वृ॒क्तऽब॑र्हिषः । ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ।
यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

वृक्तबर्हिषः वृक्तं छिन्नं बर्हिर्यैस्ते तथोक्ताः हविष्मन्तो हविर्भिर्युक्ताः अरंकृतः पर्याप्तकारिणः यद्वा हविरादीनामलंकर्तारोजनासः ऋत्वि- ग्लक्षणाजनाः हे अश्विना अश्विनौ युवां हवन्ते आह्वयन्ति अताअगच्छतमितिशेषः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः