मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १८

संहिता

अ॒स्माक॑म॒द्य वा॑म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
यु॒वाभ्यां॑ भूत्वश्विना ॥

पदपाठः

अ॒स्माक॑म् । अ॒द्य । वा॒म् । अ॒यम् । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।
यु॒वाभ्या॑म् । भू॒तु॒ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

अद्येदानीं अस्माकं अयं स्तोमः अस्मदीयं स्तोत्रं हे अश्विनौ वां युवयोः वाहिष्ठः वाहयितृतमः प्रापयितृतमः सन् युवाभ्यां अन्तमः अन्ति- कतमः अतिशयेन समीपवर्ती भूतु भवतु तमेतादेश्चेति अन्तिकशब्दस्य तादिर्लुप्यते भवतेश्छान्दसः शपोलुक् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः