मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् १९

संहिता

यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे ।
ततः॑ पिबतमश्विना ॥

पदपाठः

यः । ह॒ । वा॒म् । मधु॑नः । दृतिः॑ । आऽहि॑तः । र॒थ॒ऽचर्ष॑णे ।
ततः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ रथचर्षणे स्थस्य चर्षणे द्रष्टव्ये मध्यदेशे योदृतिः मधुनः मधुरस्यास्माभिर्दत्तस्य सोमस्य संबन्धी तेन मधुना पूर्णः आहितः स्थापितोवर्तते ततोदृतेः सकाशात् सोमं पिबतं ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः