मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २०

संहिता

तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ ।
वह॑तं॒ पीव॑री॒रिषः॑ ॥

पदपाठः

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ ।
वह॑तम् । पीव॑रीः । इषः॑ ॥

सायणभाष्यम्

हे वाजिनीवस् वाजोन्नं बलं वा तद्युक्तधनौ नोस्माकं पश्वे पशवे अश्वादिलक्षणाय जसादिषु छन्दसिवावचनमिति घेर्ङितीति गुणस्य विकल्पितत्वाद्यण् तोकाय पुत्राय गवेच जात्यभिप्रायं सर्वत्रैकवचनं पशुप्रभृतिभ्यः शं सुखं यथाभवति तथा पीवरीः प्रवृद्धानि इषोन्नानि तेन भवदीयेन रथेन आवहतं प्रापयतं दत्तमित्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः