मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २१

संहिता

उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा ।
अप॒ द्वारे॑व वर्षथः ॥

पदपाठः

उ॒त । नः॒ । दि॒व्याः । इषः॑ । उ॒त । सिन्धू॑न् । अ॒हः॒ऽवि॒दा॒ ।
अप॑ । द्वारा॑ऽइव । व॒र्ष॒थः॒ ॥

सायणभाष्यम्

उतापिच हे अहर्विदा अह्नोलंभयितारौ यद्वा अह्नि प्रभातसमये वेदितव्यौ स्तोतव्यावश्विनौ दिव्याः दिविभवाः इषः इष्यमाणाअपः नोस्मदर्थं द्वारेव द्वारेणेव छिद्रेणेव अपवर्षथः मेघादपकृष्य युवां सिञ्चथः उतापिच सिन्धून् स्यन्दनशीलानदीः सुवृष्टैस्तैरुदकैरस्माकं स्नानपानादिकार्याय कृतवन्तावित्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः