मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २४

संहिता

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑ः ।
यद्वां॑ वृषण्वसू हु॒वे ॥

पदपाठः

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ ।
यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥

सायणभाष्यम्

हे वृषण्वसु वर्षणधनौ वृषण्वस्वश्वयोरुपसंख्यानमिति वृषण् भावोनिपात्यते तदानीं ताभिः पूर्वोक्ताभिर्नव्यसीभिर्नवतराभिः सुश- स्तिभिः सुप्रशस्याभिः ऊतिभीरक्षाभिः सार्धं आयातं आगच्छतम् यद्यदा वां हुवे स्तुतिभिराह्वयामि ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः