मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २५

संहिता

यथा॑ चि॒त्कण्व॒माव॑तं प्रि॒यमे॑धमुपस्तु॒तम् ।
अत्रिं॑ शि॒ञ्जार॑मश्विना ॥

पदपाठः

यथा॑ । चि॒त् । कण्व॑म् । आव॑तम् । प्रि॒यऽमे॑धम् । उ॒प॒ऽस्तु॒तम् ।
अत्रि॑म् । शि॒ञ्जार॑म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ यथाचित् येन खलु प्रकारेण कण्वं एतत्संज्ञमृषिं आवतम् अरक्षतम् प्रियमेधं प्रिययज्ञं एतत्सज्ञंच उपस्तुतं एतदाख्यंच शिञ्जारं शब्दयन्तं स्तुवन्तं अत्रिं एतानृषींश्च येनप्रकारेणारक्षतं तथास्मानपि रक्षतमिति शेषः यद्वा एतावद्वांवृषण्वसू इत्यनयैकवाक्यता ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः