मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २७

संहिता

ए॒ताव॑द्वां वृषण्वसू॒ अतो॑ वा॒ भूयो॑ अश्विना ।
गृ॒णन्त॑ः सु॒म्नमी॑महे ॥

पदपाठः

ए॒ताव॑त् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अतः॑ । वा॒ । भूयः॑ । अ॒श्वि॒ना॒ ।
गृ॒णन्तः॑ । सु॒म्नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे वृषण्वसू वर्षणधनौ अश्विना अश्विनौ गृणन्तः स्तुवन्तोवयं एतावत् यथाचित्कण्वमित्यादिना यावदनुक्रान्तम् एतत्परिमाणं सुम्नं सुखं अतोवा अस्माद्वा भूयोबहुतरमधिकं सुम्नं वां युवां ईमहे याचामहे ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः