मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् २८

संहिता

रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना ।
आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥

पदपाठः

रथ॑म् । हिर॑ण्यऽवन्धुरम् । हिर॑ण्यऽअभीशुम् । अ॒श्वि॒ना॒ ।
आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥

सायणभाष्यम्

हे अश्विना अश्विनौ हिरण्यवन्धुरं सारथिस्थानं वन्धुरं हिरण्यसारथिस्थानं हिरण्याभीशुं हिरण्मयप्रग्रहं दिविस्पृशं अत्युन्नतत्वाद्दिवं स्पृशन्तम् स्पृशेः क्विन् दिव् शब्दात् द्वितीयार्थेसप्तमी हृद्युभ्यांङेरुपसंख्यानमितिलुक् ईदृशं रथं आहिस्थाथः युवामातिष्ठथ एव हिरवधारणे अस्मदीयां स्तुतिं श्रेतुं शीघ्रं रथमास्थायागतमितिभावः । ष्ठागतिनिवृत्तौ लटि छान्दसः शपोलुक् ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः