मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३०

संहिता

तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् ।
उपे॒मां सु॑ष्टु॒तिं मम॑ ॥

पदपाठः

तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रा॒ऽवतः॑ । चि॒त् । आ । ग॒त॒म् ।
उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥

सायणभाष्यम्

हे वाजिनीवसू अन्नवद्धनावश्विनौ यउक्तो हिरण्मयसर्वावयवोरथः तेन रथेन नोस्मान् परावतश्चित् दूरदेशादपि आगतमागच्छतम् गमेश्छान्दसः शपोलुक् अनुदात्तोपदेशेत्यनुनासिकलोपः इदानीमृषिरेकवदाह मम मदीयां इमां इदानीं क्रियमाणां सुष्टुतिं शोभनां स्तुतिं चोपगच्छतम् ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः