मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३३

संहिता

एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिनः॑ ।
अच्छा॑ स्वध्व॒रं जन॑म् ॥

पदपाठः

आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ ।
अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥

सायणभाष्यम्

हे अश्विनौ इहास्मिन्यागे वां युवां प्रुषितप्सवः प्रुषि स्नेहनकर्मा स्निग्धरूपाः पर्णिनः पक्षोपेताः यद्वा लुप्तोपममेतत् पक्षिणइव शीघ्र- गामिनोवयो गन्तारोश्वाः स्वध्वरं शोभनयज्ञं जनं यजमानलक्षणं अच्छाभिमुखं आवहन्तु आनयन्तु ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः