मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३५

संहिता

हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वै॑ः ।
धीज॑वना॒ नास॑त्या ॥

पदपाठः

हि॒र॒ण्यये॑न । रथे॑न । द्र॒वत्पा॑णिऽभिः । अश्वैः॑ ।
धीऽज॑वना । नास॑त्या ॥

सायणभाष्यम्

हे धीजवना मनोवद्वेगवन्तौ आमन्त्रिताद्युदात्तत्वम् हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्याविद्यमानवत्त्वेन पदादपरत्वात् आष्टमिकनिघाताभावः न च नामन्त्रितइत्यविद्यमानवत्वनिषेधः धीजवनेत्यस्यविशेषणत्वेन सामान्यवचनत्वाभावात् व्यावतकंहि विशेषणम् ईदृशौ युवां द्रवत्पाणिभिः शीघ्रगमनपादैरश्वैर्युक्तेन हिरण्ययेन हिरण्मयेन स्वर्णमयेन रथेनागच्छतमितिशेषः । यद्वा धीजवना नासत्येत्येतत् द्वयमपि प्रथमांतमेव नामन्त्रितम् धियोजवइव जवोययोस्तौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदृशेन रथेन शीघ्रगमनौ अश्विनौ आगच्छतमिति शेषः ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः