मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३६

संहिता

यु॒वं मृ॒गं जा॑गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू ।
ता नः॑ पृङ्क्तमि॒षा र॒यिम् ॥

पदपाठः

यु॒वम् । मृ॒गम् । जा॒गृ॒ऽवांसम् । स्वद॑थः । वा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
ता । नः॒ । पृ॒ङ्क्त॒म् । इ॒षा । र॒यिम् ॥

सायणभाष्यम्

वाशब्दः समुच्चये अपिच हे वृषण्वसू वर्षणधनावश्विनौ युवं युवां जागृवांसं जागरणशीलं स्वकार्ये मदजननेऽव्यग्रं मृगं मृग्यमन्वेषणीयं सोमं स्वदथः आस्वादयथः । यद्वा जागृवांसं जाग्रतं मृगं मृगनामानमसुरं स्वदथः स्वादयथः हिंस्थइत्यर्थः । ता तौ युवां नोस्मदर्थं इषा अन्नेन रयिं धनं पृङ्क्तं संपृक्तं कुरुतं ईदृशं धनं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः