मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ५, ऋक् ३७

संहिता

ता मे॑ अश्विना सनी॒नां वि॒द्यातं॒ नवा॑नाम् ।
यथा॑ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा॑नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना॑म् ॥

पदपाठः

ता । मे॒ । अ॒श्वि॒ना॒ । स॒नी॒नाम् । वि॒द्यात॑म् । नवा॑नाम् ।
यथा॑ । चि॒त् । चै॒द्यः । क॒शुः । श॒तम् । उष्ट्रा॑नाम् । दद॑त् । स॒हस्रा॑ । दश॑ । गोना॑म् ॥

सायणभाष्यम्

हे अश्विना अशिनौ ता तादृशौ युवां नवानां अभिनवानां श्रेष्ठानां सनीनां संभजनीयानां धनानां कर्मणि षष्ठी ईदृशानि धनानि मे मत्द्यं दापयितुं विद्यातं जानीतं यथाचित् येन खलु प्रकारेण चैद्यः चेदिपुत्रः कशुः एतत्संज्ञोराजा उष्ट्रानां शतं तथा गोनां गवां दशसहस्रा दशसंख्यानि सहस्राणि ददत् दद्यात् तथा विद्यातमिति पूर्वत्रान्वयः ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः