मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १

संहिता

म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥

पदपाठः

म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ।
स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥

सायणभाष्यम्

यइन्द्रः ओजसा बलेन महान् सर्वेभ्योधिकः कइव वृष्टिमान्इव यथा वृष्ट्यायुक्तः पर्जन्यः रसानां प्रार्जयिता देवोमहान् सइवेत्यर्थः सइन्द्रः वत्सस्य पुत्रस्थानीयस्य स्तोतुः वत्सनाम्नएवऋषेः स्तोमैः स्तोत्रैः ववृधे प्रवर्धते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः