मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २

संहिता

प्र॒जामृ॒तस्य॒ पिप्र॑त॒ः प्र यद्भर॑न्त॒ वह्न॑यः ।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥

पदपाठः

प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः ।
विप्राः॑ । ऋ॒तस्य॑ । वाह॑सा ॥

सायणभाष्यम्

ऋतस्य यज्ञस्य सत्यस्य प्रजां प्रकर्षेण जातमिन्द्रं पिप्रतः नभसः प्रदेशान् पूरयन्तोवह्नयोवाहकाअश्वाः यद्यदा प्रभरन्त प्रकर्षेण भरन्ति वहन्ति तदा विप्रामेधाविनः ऋतस्य यज्ञस्य वाहसा प्रापकेण स्तोत्रेण तमिन्द्र स्तुवन्तीति शेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः