मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४

संहिता

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।
स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥

पदपाठः

सम् । अ॒स्य॒ । म॒न्यवे॑ । विशः॑ । विश्वाः॑ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ।
स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ॥

सायणभाष्यम्

विशोविशन्त्यः विश्वाः सर्वाः कृष्टयः प्रजाः अस्येन्द्रस्य मन्यवे क्रोधाय यद्वा मन्युर्मननसाधनं स्तोत्रं तदर्थं सन्नमन्त सम्यक् स्वतएव नमन्ति नमतेः कर्मकर्तरि छान्दसोलङ् नदुहस्नुनमामितियक् चिणोः प्रतिषेधः प्रह्वीभवन्ति । तत्रदृष्टान्तः-समुद्रायेव यथा समुद्रं अब्धिं प्रति सिन्धवः स्य्अन्दनशीलानद्यः स्वयमेव नमन्ते तद्वत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः