मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ५

संहिता

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।
इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥

पदपाठः

ओजः॑ । तत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । उ॒भे इति॑ । यत् । स॒म्ऽअव॑र्तयत् ।
इन्द्रः॑ । चर्म॑ऽइव । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

अस्येन्द्रस्य तदोजोबलं तित्विषे दिदीपे त्विष दीप्तौ यत् येनौजसा अयमिन्द्रः उभे रोदसी द्यावापृथिव्यौ चर्मेव समवर्तयत् सम्यग्वर्तयति यथा कश्वित्किञ्चिच्चर्म कदाचिद्विस्तारयति कदाचित्संकोचयति एवं तदधीने अभूतामित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः