मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ७

संहिता

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ ।
अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥

पदपाठः

इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे॑षु । धी॒तयः॑ ।
अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः॑ ॥

सायणभाष्यम्

विपां स्तोतॄणामग्रेषु पुरस्तात् इमा अस्मदीयाः धीतयोधियः स्तोत्राणि अभिप्रणोनुमः आभिमुख्येन पुनःपुनः प्रवदामः । णुशब्दे । कीदृ- शीः स्तुतीः अग्नेः शोचिर्न दीप्तिरिव दिद्युतोदीप्यमाना वेदरूपाः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०