मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ८

संहिता

गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तयः॑ ।
कण्वा॑ ऋ॒तस्य॒ धार॑या ॥

पदपाठः

गुहा॑ । स॒तीः । उप॑ । त्मना॑ । प्र । यत् । शोच॑न्त । धी॒तयः॑ ।
कण्वाः॑ । ऋ॒तस्य॑ । धार॑या ॥

सायणभाष्यम्

गुहा गुहायां सतीः सत्योभवंत्यः यत् याः धीतयः स्तुतयः कर्माणि वा त्मना आत्मना स्वेनेन्द्रेणोपगम्यमानाः प्रशोचन्त प्रादीप्यन्त यद्वा आत्मना स्वतएवेन्द्रमुपगच्छन्त्यः प्रदीप्यन्ते ताः स्तुतीः कण्वाः कण्वगोत्राऋषयः ऋतस्योदकस्य सोमात्मकस्य धारया सहिताः कुर्वन्तीति शेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०