मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ९

संहिता

प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् ।
प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥

पदपाठः

प्र । तम् । इ॒न्द्र॒ । न॒शी॒म॒हि॒ । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
प्र । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ॥

सायणभाष्यम्

हे इन्द्र गोमन्तं गोभिर्युक्तं अश्विनं अश्वैरुपेतं तं प्रसिद्धं रयिं त्वदीयं धनं प्रनशीमहि प्राप्नुयाम तथा ब्रह्म परिवृढमन्नं च पूर्वचित्तये- अन्येभ्यः पूर्वमेव ज्ञानाय प्राप्नुयाम ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०