मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १२

संहिता

ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः ।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥

पदपाठः

ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वुः । ऋष॑यः । ये । च॒ । तु॒स्तु॒वुः ।
मम॑ । इत् । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥

सायणभाष्यम्

हे इन्द्र ये जनाः त्वां न तुष्टुवुः न स्तुवन्ति ये च ऋषयोमन्त्राणां द्रष्टारोजनाः तुष्टुवुः त्वां स्तुवन्ति उभयेषां मध्ये ममेत् ममैव स्तोत्रेण सुष्टुतः शोभनं स्तुतः सन् वर्धस्व वर्धयस्व वृद्धोभव ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११