मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १३

संहिता

यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।
अ॒पः स॑मु॒द्रमैर॑यत् ॥

पदपाठः

यत् । अ॒स्य॒ । म॒न्युः । अध्व॑नीत् । वि । वृ॒त्रम् । प॒र्व॒ऽशः । रु॒जन् ।
अ॒पः । स॒मु॒द्रम् । ऐर॑यत् ॥

सायणभाष्यम्

अस्येन्द्रस्य मन्युः क्रोधः वृत्रं आवृत्य तिष्ठन्तमसुरं मेघं वा पर्वशः पर्वणि पर्वणि परुषि परुषि विरुजन् विभञ्जन् यद्यदा अध्वनीत् स्तन- यित्नुलक्षणं शब्दमकरोत् तदानीं समुद्रं समुन्दनीयं अदधिं प्रति अपोवृष्ट्युदकानि ऎरयत् सइन्द्रः प्रेरितवान् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११