नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं॑ जघन्थ॒ दस्य॑वि ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥
नि । शुष्णे॑ । इ॒न्द्र॒ । ध॒र्ण॒सिम् । वज्र॑म् । ज॒घ॒न्थ॒ । दस्य॑वि ।
वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे ॥
हे इन्द्र शुष्णे शोषके एतत्संज्ञे दस्यवि उपक्षपयितर्यसुरे धर्णसिं धारयितव्यं वज्रं कुलिशं त्वं निजघन्थ निहतवानसि वज्रेण तमसुरं न्यवधीरित्यर्थः । हे अग्रोदूर्णबलेन्द्र वृषा कामानां वर्षितेति हि श्रृण्विषे श्रूयसे अतोस्मदपेक्षितं धनं देहीति शेषः ॥ १४ ॥