मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १५

संहिता

न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
न वि॑व्यचन्त॒ भूम॑यः ॥

पदपाठः

न । द्यावः॑ । इन्द्र॑म् । ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।
न । वि॒व्य॒च॒न्त॒ । भूम॑यः ॥

सायणभाष्यम्

द्यावोद्युलोकाः इममिन्द्रं ओजसा बलेन न विव्यचन्त न व्याप्नुवन्ति द्युलोकेभ्योप्यस्य बलमधिकमित्यर्थः । तथा अन्तरिक्षाणि अन्तरा- क्षान्तानि द्यावापृथिव्योर्मध्ये वर्तमानाः लोकाः वज्रिणं वज्रवन्तमिन्द्रं न व्याप्नुवन्ति तथा भूमयोभूलोकाश्च तमिन्द्रं न व्याप्नुवन्ति त्रयोवाइमेत्रिवृतोलोकाइति ब्राह्मणादेकैकस्यलोकस्य त्रित्वम् । तिस्रोभूमीरित्यादि निगमाच्च ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११