मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १६

संहिता

यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।
नि तं पद्या॑सु शिश्नथः ॥

पदपाठः

यः । ते॒ । इ॒न्द्र॒ । म॒हीः । अ॒पः । स्त॒भु॒ऽयमा॑नः । आ । अश॑यत् ।
नि । तम् । पद्या॑सु । शि॒श्न॒थः॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव संबन्धिनीः महीर्महतीः अपः आन्तरिक्ष्याण्युदकानि योवृत्रः स्तभूयमानः स्तम्भयन् यथा अधोनपतन्ति तथाकुर्वन् आश- यत् आवृत्याशेत् तमसुरं पद्यासु गमनशीलास्वप्सु मध्ये निशिश्नथः न्यहिंसीः श्नथिर्हिसार्थः वज्रेण तमसुरं हत्वा नदीषु पातितवानित्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२