मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १७

संहिता

य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।
तमो॑भिरिन्द्र॒ तं गु॑हः ॥

पदपाठः

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् ।
तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥

सायणभाष्यम्

योवृत्रः मही महत्यौ विस्तीर्णे समीची सङ्गते इमे प्रत्यक्षतउपलभ्यमाने रोदसी द्यावापृथिव्यौ समजग्रभीत् सम्यगग्रहीत् आवृणो- दित्यर्थः तमसुरं हे इन्द्र त्वं तमोभिरन्धकारैः गुहः संवृतमकरोः अनाद्यनन्तं मरणलक्षणं तमः प्रावेशयइत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२