मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १८

संहिता

य इ॑न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।
ममेदु॑ग्र श्रुधी॒ हव॑म् ॥

पदपाठः

ये । इ॒न्द्र॒ । यत॑यः । त्वा॒ । भृग॑वः । ये । च॒ । तु॒स्तु॒वुः ।
मम॑ । इत् । उ॒ग्र॒ । श्रु॒धि॒ । हव॑म् ॥

सायणभाष्यम्

हे इन्द्र ये यतयः नियताः अंगिरसः त्वा त्वां तुष्टुबुः ये च भृगवोभृगुगोत्रास्त्वां तुष्टुवुः स्तुवन्ति तेषु मध्ये ममेत् ममैव हवं स्तोत्रं हे उग्र ओजस्विन्निन्द्र श्रुधि शृणु ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२