मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् १९

संहिता

इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर॑म् ।
ए॒नामृ॒तस्य॑ पि॒प्युषी॑ः ॥

पदपाठः

इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न॑यः । घृ॒तम् । दु॒ह॒ते॒ । आ॒ऽशिर॑म् ।
ए॒नाम् । ऋ॒तस्य॑ । पि॒प्युषीः॑ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीयाइमाः पृश्नयः प्राष्टवर्णागावः घृतं क्षरणशीलं एनां एनं आशिरं आश्रयणं पयः दुहते दुहन्ति क्षारयन्ति । कीदृश्यः पृश्नयः ऋतस्य सत्यस्य अवितथस्येन्द्रस्य यज्ञस्य वा पिप्युषीः वर्धयित्र्यः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२