मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २१

संहिता

त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।
त्वां सु॒तास॒ इन्द॑वः ॥

पदपाठः

त्वाम् । इत् । श॒व॒सः॒ । प॒ते॒ । कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ।
त्वाम् । सु॒तासः॑ । इन्द॑वः ॥

सायणभाष्यम्

हे शवतस्पते बलस्य स्वामिन्निन्द्र त्वामित् त्वामेव कण्वाःस्तोतारः कण्वगोत्रावा ऋषयः उक्थेन शस्त्रेण ववृधुः वर्धयन्ति सुतासोध्वर्यु- भिरभिषुताः इन्दवः सोमाश्च त्वामेव वर्धयन्ति ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३