मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २३

संहिता

आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् ।
उ॒त प्र॒जां सु॒वीर्य॑म् ॥

पदपाठः

आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष॑म् । पुर॑म् । न । द॒र्षि॒ । गोऽम॑तीम् ।
उ॒त । प्र॒ऽजाम् । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे इन्द्र नोस्मभ्यं अस्मदर्थं महीं महतीं गोमतीं गोभिर्युक्तां इषमन्नं आदर्षि आद्रियस्व दातुं कामयस्व नशब्दश्चार्थे पुरं न पालनं पूःपालनं रक्षणं चास्मभ्यं कर्तुमाद्रियस्व । उतापिच सुवीर्थं शोभनवीर्योपेतां प्रजां संततिं दातुं कामयस्व ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३