मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २४

संहिता

उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥

पदपाठः

उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ ।
अग्रे॑ । वि॒क्षु । प्र॒ऽदीद॑यत् ॥

सायणभाष्यम्

हे इन्द्र नाहुषीषु नहुषाइति मनुष्यनाम तत्सम्बन्धिनीषु यद्वा नाहुषोनाम कश्चिद्राजा तदीयासु विक्षु प्रजासु अग्रे पुरस्तात् यत् आश्वश्व्यं शीघ्रगाम्यश्वसंघात्मकं बलं प्रदीदयत् प्रादीप्यत उतापिच त्यत् तदपि अस्मभ्यं देहीतिशेषः । आकारः पूरकः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३