मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २६

संहिता

यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः ।
म॒हाँ अ॑पा॒र ओज॑सा ॥

पदपाठः

यत् । अ॒ङ्ग । त॒वि॒षी॒ऽयसे॑ । इन्द्र॑ । प्र॒ऽराज॑सि । क्षि॒तीः ।
म॒हान् । अ॒पा॒रः । ओज॑सा ॥

सायणभाष्यम्

अङ्गेत्यभिमुखीकरणे हे इन्द्र यत् यस्त्वं तविषीयसे तविषीति बलनाम बलमिवाचरसि हस्त्यश्वरथादिकं बलं यथा सर्वं शत्रुजातं भनक्ति तद्वत् त्वमसहायएव सन् सर्वमेव शत्रुजातं मारयसीत्यर्थः यश्च त्वं क्षितीः मनुष्यनामैतत् मनुष्यान् प्रराजसि प्रकर्षेणेशिषे राजतिरैश्वर्यकर्मा अस्यापि यद्वृत्तयोगान्ननिघातः सइन्द्रः ओजसा बलेन महान् सर्वेभ्योधिकः अतएव अपारः पाररहितः केनाप्यव- सानं प्रापयितुमशक्यइत्यर्थः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४