मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २७

संहिता

तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।
उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ॥

पदपाठः

तम् । त्वा॒ । ह॒विष्म॑तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । ऊ॒तये॑ ।
उ॒रु॒ऽज्रय॑सम् । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हे इन्द्र तं पूर्वोक्तगुणं उरुज्रयसं विस्तीर्णं व्यापिनं त्वा त्वां हविष्मतीर्हविर्भिश्चरुपुरोडाशादिभिर्युक्ताः विशः प्रजाः उपब्रुवते उपेत्य- स्तुवन्ति किमर्थं इन्दुभिः सोमैः ऊतये तर्पणाय । यद्वा इन्दुभिः सोमैरुरुज्रयसं विस्तीर्णजवं ऊतये रक्षणाय स्तुवन्ति ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४