मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् २८

संहिता

उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।
धि॒या विप्रो॑ अजायत ॥

पदपाठः

उ॒प॒ऽह्व॒रे । गि॒री॒णाम् । स॒म्ऽग॒थे । च॒ । न॒दीना॑म् ।
धि॒या । विप्रः॑ । अ॒जा॒य॒त॒ ॥

सायणभाष्यम्

गिरीणां पर्वतानां उपह्वरे उपह्वर्तव्ये नदीनां सरितां संगथे संगमने च ईदृग्विधे देशे क्रियमाणया धिया यागक्रियया स्तुत्या वा विप्रोमेधावी इन्द्रः अजायत प्रादुर्भवति अतोवयमपि तादृशेदेशे यजामः स्तुमोवेति भावः । गिरीणामित्यत्र नामन्यतरस्यामिति नामउदात्तत्वम् ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४