मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३१

संहिता

कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् ।
उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥

पदपाठः

कण्वा॑सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे॑ । व॒र्ध॒न्ति॒ । पौंस्य॑म् ।
उ॒तो इति॑ । श॒वि॒ष्ठ॒ । वृष्ण्य॑म् ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीयां मतिं बुद्धिं पौंस्यं बलनामैतत् बलं च विश्वे सर्वे कण्वासः कण्वाः स्तोतारः कण्वगोत्रावा ऋषयः वर्धन्ति वर्धयन्ति छन्दस्युभयथेति शप् आर्धधातुकत्वात् णेरनिटीति णिलोपः । उतो अपिच हे शविष्ठ शवस्वितम बलवत्तम विन्मतोर्लुक् टेरिति टिलोपः ईदृशेन्द्रः वृष्ण्यं त्वदीयं वीर्यं बलकर्म च कण्वासोवर्धयन्तीत्येव ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५