मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ३६

संहिता

आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या॑म् ।
इ॒ममि॑न्द्र सु॒तं पि॑ब ॥

पदपाठः

आ । नः॒ । या॒हि॒ । प॒रा॒ऽवतः॑ । हरि॑ऽभ्याम् । ह॒र्य॒ताभ्या॑म् ।
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ ॥

सायणभाष्यम्

हे इन्द्र परावतः परागतात् दूरेवर्तमानात् द्युलोकात् हर्यताभ्यां कान्ताभ्यां हरिभ्यां अश्वाभ्यां नोस्मानायाहि आगच्छ आगत्यच इमम- स्मदीयं सुतमभिषुतं सोमं पिब ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६